मुख्यपृष्ठम्
अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
प्रमुखः लेखः
|
भारतस्य संविधानं नाम प्रजानां प्रशासनस्य नियमानुशासनानां ग्रन्थः । सर्वकारस्य मूलरचनस्य मार्गदशकम् एतत् संविधानम् । एतत् क्रि.श.१९४७तमे वर्षे डिसेम्बर् मासस्य ९दिनाङ्कात् क्रि.श.१९४९तमवर्षस्य नवेम्बर् २६दिनाङ्कपर्यन्तं भारतसंविधानरचनकार्यम् अनुवृत्तम् । क्रि.श.१९५०तमे वर्षे जनवरिमासस्य २६दिनाङ्के कार्ये अनुष्ठितम् । अतः भारते प्रतिवर्षं तद्दिनं गणराज्योत्सवदिनत्वेन आचर्यते । भारतीयसंविधानस्य ४४४विधयः १० अनुच्छेदाः च विद्यन्ते । नैकाः परिष्काराः अस्य अभवन् । विश्वस्य लिखितेषु संविधानेषु भारतस्य संविधानग्रन्थः अतिबृहत् अस्ति । अस्य संविधानस्य आङ्ग्लभाषायाः आवृत्तौ १,१७,३६९पदानि सन्ति । .....
( अधिकवाचनाय »)
|
|
|
वार्ताः
|
- रष्यादेशस्य नूतनः राष्ट्रपतिः व्लाडिमिर पुटिन (चित्रम्) स्वीयं तृतीयं कार्यावधिं प्रारभते।
- मध्यप्रदेशे बुन्देलखण्डाञ्चले प्रतिवर्षम् आयोज्यमानो विश्वविख्यातः खजुराहोनृत्यमहोत्सवः फेब्रुवरी १ दिनाङ्के आरभते। सप्ताहावधिकेऽस्मिन् महोत्सवे कथक-कथाकेळी-भरतनाट्य-ओडीशी-मणिपुरी-कुचिपुडीति भारतीयशास्त्रीयनृत्यप्रस्तुतयो दर्शयिष्यन्ते।
- जनुवरी २८ तमे दिनाङ्के (माघमासस्य शुक्ल्पक्षे पञ्चम्यां) भारतदेशे वसन्तपञ्चमी आचर्यते । विविधेषु स्थलेषु, देवालयेषु च पारम्परिकरीत्या सरस्वतीपूजनं भवति।
- ओस्ट्रेलिया ओपन् टेन्नीस् स्पर्धायां भारतस्य लियाण्डर् पेसस्य चेक्महाराज्यस्य राडेक् स्टेपानेकस्य च युगलेन पुरुषवर्गस्य प्रतिस्पर्धा विजीता।
- जनुवरिमासस्य २६ तमे दिनाङ्के भारतदेशे सर्वत्र ६३तमं जनराज्यदिनम् आचरितम् ।
- केरळस्य राज्यपालः एम्.ओ.ऐच्. फ़ारूक् वृक्कावरोधकारणात् जनुवरिमासस्य २६ तमे दिनाङ्के दिवङ्गतः।
|
|
ज्ञायते किं भवता ?
|
|
|
|
|
सुभाषितम्
|
दूरीकरोति दुरितं विमलीकरोति
चेतश्चिरन्तनमघं चुलुकीकरोति
भूतेषु किञ्च करुणां बहुलीकरोति
सत्सङ्गति: कथय किं न करोति पुंसाम् ।
-
-
-
-
-
- सु.भा. - सत्सङ्गतिप्रशंसा (९१/३०)
लोके सर्वेषां जनानां स्नेहिता: भवन्ति एव । तेषु स्नेहितेषु सज्जनानां संख्या तु न्यूना एव । यत: स्वार्थपरा: एव अधिका: सन्ति लोके । तथापि अस्माभि: सज्जनानां सहवास: एव करणीय: इति वदन् सुभाषितकार: तत्र कारणमपि वदति - सज्जनानां सहवासेन पुरुषाणां मनसि स्थिता: दुष्टा: विचारा: दूरं गच्छन्ति । मन: शुद्धं भवति । पुरा कृतं पापमपि भस्म भवति । अपि च प्राणिनां विषये दया अधिका भवति । अत: सज्जनानां स्नेह: मनुष्याणां किं वा न करोति ? अर्थात् सर्वविधानि मङ्गलानि अपि जनयति ।
|
|
|
प्रमुखं चित्रम्
|
कथाकेळिः ( मलयाळम्: കഥകളി, कथकळि) देशे विदेशे च प्रसिद्धिमाप्ता एकं केरळीयनृत्तकलारूपमस्ति। तत्र कथासन्दर्भाः श्लोकरूपेण सम्भाषणानि पदरूपेण कथांशसङ्ग्रहः दण्डकरूपेण च निबद्धाः दृश्यन्ते। गानानुसारं पदानामर्थान् मुद्राभिः, रसान् मुखोपाङ्गचलनैश्च आविष्करोति नटः। कथाकेल्यां प्राधान्येन (१) केली, (२) अरङ्ङुकेली, (३) तोटयम्, (४) वन्दनश्लोकः, (५) पुरप्पाट्, (६) मेळप्पदम्, (७) कथाभिनयम्, (८) धनाशि च सन्ति। कथापात्राणां स्वभावानुसारमेव आहार्यता निर्णीता। तत्र पच्चा, कत्ति, ताटि, करि, मिनुक्क्, इत्येवमादयः, आहार्यविशेषाः स्वीकृताः सन्ति। कथाकेल्याः साहित्यं कैरळ्याम् 'आट्टक्कथा' इति व्यवह्रियते।
|
|
विश्वविज्ञानकोशः
|
|
|
|
विकि समाजः
|
|
|
|
|
संस्कृतभाषासहायी
|
|
|
|
भ्रातृपरियोजनाः
|
विकिपीडियस्य आतिथेयत्वं विकिमीडिया फौण्टेषन् नाम स्वलाभरहितं संघटनं कृतोऽस्ति। इदं हि अन्येऽपि विविधाः परियोजनाः आयोजिताः सन्ति।
संस्कृतभाषा परियोजनाः
आंगलेयभाषा परियोजनाः
|
|
विकिपीडिया भाषाः
|
|
|
|